(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    


॥ श्रीः ॥
9.32. अध्यायः 032
Mahabharata - Shalya Parva - Chapter Topics
युधिष्ठिरकटुभाषणरुष्टेन सुयोधनेन गदयासह हदादुत्थानम्॥ 1 ॥ युधिष्ठिरदुर्योधनयोः संवादः॥ 2 ॥


Mahabharata - Shalya Parva - Chapter Text

धृतराष्ट्र उवाच। 9-32-0x(5146)(62047)
एवं सन्तर्ज्यमानस्तु मम पुत्रो महीपतिः।
प्रकृत्या मन्युमान्वीरः कथमासीत्परन्तपः॥ 9-32-1(62048)
न हि सन्तर्जना तेन श्रुतपूर्वा कथञ्चन।
राजभावेन मान्यश्च सर्वलोकस्य सोऽभवत्॥ 9-32-2(62049)
[यस्यातपत्रच्छायापि स्वका भानोस्तथा प्रभा।
खेदायैवाभिमानित्वात्सहेत्सैवं कथं गरिः॥] 9-32-3(62050)
इयं च पृथिवी सर्वा सम्लेच्छाटविका भृशम्।
प्रसादाद्भ्रियते यस्य प्रत्यक्षं तव सञ्जय॥ 9-32-4(62051)
स तथा तर्ज्यमानस्तु पाण्डुपुत्रैर्विशेषतः।
विहीनश्च स्वकैर्भृत्यैर्निर्जिते चावृतो भृशम्॥ 9-32-5(62052)
स श्रुत्वा कटुका वाचो जययुक्ताः पुनःपुनः।
किमब्रवीत्पाण्डवेयांस्तन्ममाचक्ष्व सञ्जय॥ 9-32-6(62053)
सञ्जय उवाच। 9-32-7x(5147)
तर्ज्यमानस्तदा राजन्नुदकस्थस्तवात्मजः।
युधिष्ठिरेण राजेन्द्र भ्रातृभिः सहितेन ह॥ 9-32-7(62054)
श्रुत्वा स कटुका वाचो विषमस्थो नराधिपः।
दीर्घमुष्णं च निःश्वस्य सलिलस्थः पुनःपुनः॥ 9-32-8(62055)
सलिलान्तर्गतो राजा धुन्वन्हस्तौ पुनःपुनः।
मनश्चकार युद्धाय राजानं चाभ्यभाषत॥ 9-32-9(62056)
यूयं ससुहृदः पार्थाः सर्वे सरथवाहनाः।
अहमेकः परिद्यूनो विरथो हतवाहनः॥ 9-32-10(62057)
आत्तशस्त्रै रथोपेतैर्बहुभिः परिवास्तिः।
कथमेकः पदातिः सन्नशस्त्रो योद्धुमुत्सह॥ 9-32-11(62058)
एकैकशश्च मां यूयं योधयध्वं युधिष्ठिर।
न ह्येको बहुभिर्वीरैर्न्याय्यो योधयितुं युधि॥ 9-32-12(62059)
विशेषतो विकवचः श्रान्तश्चापत्समाश्रितः।
भृशं विक्षतगात्रश्च श्रान्तवाहनसैनिकः॥ 9-32-13(62060)
न मे त्वत्तो भयं राजन्न च पार्थाद्वृकोदरात्।
फल्गुनाद्वासुदेवाद्वा पाञ्चालेभ्योऽथवा पुनः॥ 9-32-14(62061)
यमाभ्यां युयुधानाद्वा ये चान्ये तव सैनिकाः।
एकः सर्वानहं क्रुद्धो वारयिष्ये युधि स्थितः॥ 9-32-15(62062)
धर्ममूला सतां कीर्तिर्मनुष्याणां जनाधिप।
धर्मं चैवेह कीर्तिं च पालयन्प्रब्रवीम्यहम्॥ 9-32-16(62063)
अहमुत्थाय सर्वान्वै प्रतियोत्स्यामि संयुगे।
अन्वभ्याशं गतान्सर्वान्निहनिष्यामि भारत॥ 9-32-17(62064)
अद्य वः सरथान्साश्वानशस्त्रो विरथोऽपि सन्।
नक्षत्राणीव सर्वाणि सविता रात्रिसंक्षये॥ 9-32-18(62065)
तेजसा नाशयिष्यामि स्थिरीभवत पाण़्डवाः।
अद्यानृण्यं गमिष्यामि क्षत्रियाणां यशस्विनां॥ 9-32-19(62066)
बाह्लीकद्रोणभीष्माणां कर्णस्य च महात्मनः।
जयद्रथस्य शूरस्य भगदत्तस्य चोभयोः॥ 9-32-20(62067)
मद्रराजस्य शल्यस्य भूरिश्रवस एव च।
पुत्राणां भरतश्रेष्ठ शकुनेः सौबलस्य च॥ 9-32-21(62068)
मेत्राणां सुहृदां चैव बान्धवानां तथैव च।
प्रानृण्यमद्य गच्छामि हत्वा त्वां भ्रातृभिः सह॥ 9-32-22(62069)
सञ्जय उवाच। 9-32-23x(5148)
एतावदुक्त्वा वचनं विरराम जनाधिपः।
`सलिलान्तर्गतः श्रीमान्पुत्रो दुर्योधनस्तव॥' 9-32-23(62070)
युधिष्ठिर उवाच। 9-32-24x(5149)
दिष्ट्या त्वमपि जानीषे क्षत्रधर्मं सुयोधन।
दिष्ट्या ते वर्तते बुद्धिर्युद्धायैव महाभुज॥ 9-32-24(62071)
दिष्ट्या शूरोऽसि गान्धारे दिष्ट्या जानासि सङ्गरम्।
यस्त्वमेको हि नः सर्वान्सङ्गरे योद्भुमिच्छसि॥ 9-32-25(62072)
एक एकेन सङ्गम्य यत्ते सम्मतमायुधम्।
तत्त्वमादाय युध्यस्व प्रेक्षकास्ते वयं स्थिताः॥ 9-32-26(62073)
अयमिष्टं च ते कामं वीर भूयो ददाम्यहम्।
हत्वैकं भव नो राजा हतो वा स्वर्गमाप्नुहि॥ 9-32-27(62074)
दुर्योधन उवाच। 9-32-28x(5150)
एकश्चेद्योद्भुमाक्रन्दे वरोऽद्य मम दीयताम्।
आयुधानामियं चापि मता मे सतं गदा॥ 9-32-28(62075)
भ्रातणां भवतामेकः शक्यं मां योऽभिमन्यते।
पदातिर्गदया सङ्ख्ये स युध्यतु मया सह॥ 9-32-29(62076)
वृत्तानि रथयुद्धानि विचित्रामि पदेपदे।
इदमेकं गदायुद्धं भवत्वद्याद्भुतं महत्॥ 9-32-30(62077)
अन्नानामपि पर्यायं कर्तुमिच्छन्ति मानवाः।
युद्धानामपि पर्यायो भवत्वनुमते तव॥ 9-32-31(62078)
गदया त्वां महाबाहो विजेष्यामि सहानुजम्।
पाञ्चालान्सृञ्जयांश्चैव ये चान्ये तव सैनिकाः।
न हि मे सम्भ्रामो जातु शक्रादपि युधिष्ठिर॥ 9-32-32(62079)
युधिष्ठिर उवाच। 9-32-33x(5151)
उत्तिष्ठोत्तिष्ठ गान्धारे मां योधय सुयोधन।
एक एकेन सङ्गम्य संयुगे गदया बली॥ 9-32-33(62080)
पुरुषो भव गान्धारे युध्यस्व सुसमाहितः।
अद्य ते जीवितं नास्ति यदीन्द्रोपि तवाश्रयः॥ 9-32-34(62081)
सञ्जय उवाच। 9-32-35x(5152)
एतत्स नरशार्दूलो नामृष्यत तवात्मजः।
सलिलान्तर्गतः श्वभ्रे महानाग इव श्वसन्॥ 9-32-35(62082)
तथाऽसौ वाक्प्रतोदेन तुद्यमानः पुनःपुनः।
वचो न ममृषे राजन्नुत्तमाश्वः कशामिव॥ 9-32-36(62083)
सङ्क्षोभ्य सलिलं वेगाद्गदामादाय वीर्यवान्।
अद्रिसारमयीं गुर्वीं काञ्चनाङ्गदभूषणाम्।
अन्तर्जलात्समुत्तस्थौ नागेन्द्र इव निःश्वसन्॥ 9-32-37(62084)
स भित्त्वा स्तम्भितं तोयं स्कन्धे कृत्वायसीं गदाम्।
उदतिष्ठत पुत्रस्ते प्रतपन्रश्मिवानिव॥ 9-32-38(62085)
ततः शैक्यायसीं गुर्वी जातरूपपरिष्कृताम्।
गदां परामृशद्धीमान्धार्तराष्ट्रो महाबलः॥ 9-32-39(62086)
गदाहस्तं तु तं दृष्ट्वा सशृङ्गमिव पर्वतम्।
प्रजानामिव सङ्क्रुद्धं शूलपाणिमिव स्थितम्॥ 9-32-40(62087)
*सगदो भारतो भाति प्रतपन्भास्करो यथा*॥ 9-32-41(62088)
तमुत्तीर्णं महाबाहुं गदाहस्तमरिन्दमम्।
मेनिरे सर्वभूतानि दण्डपाणिमिवान्तकम्॥ 9-32-42(62089)
वज्रहस्तं यथा शक्रं शूलहस्तं यथा हरम्।
ददृशुः शर्वपाञ्चालाः पुत्रं तव जनाधिप॥ 9-32-43(62090)
तमुत्तीर्णं तु सम्प्रेक्ष्य समहृष्यन्त सर्वशः।
पाञ्चालाः पाण्डवेयाश्च तेऽन्योन्यस्य तलान्ददुः॥ 9-32-44(62091)
अवहासं तु तं मत्वा पुत्रो दुर्योधनस्तव।
उद्वृत्य नयने क्रुद्धो दिधक्षुरिव पाण्डवान्॥ 9-32-45(62092)
त्रिशिखां भ्रुकुटीं कृत्वा सन्दष्टदशनच्छदः।
प्रत्युवाच ततस्तान्वै पाण्डवान्सह केशवान्॥ 9-32-46(62093)
दुर्योधन उवाच। 9-32-47x(5153)
अस्यावहासस्य फलं प्रतिमोक्ष्यथ पाण्डवाः।
गमिष्यथ हताः सद्यः सपाञ्चाला यमक्षयम्॥ 9-32-47(62094)
उत्थिन्तश्च जलात्तस्मात्पुत्रो दुर्योधनस्तव।
अतिष्ठत गदापाणी रुधिरेण समुक्षितः॥ 9-32-48(62095)
तस्य शोणितदिग्धस्य सलिलेन समुक्षितम्।
शरीरं स्म तदा भाति स्रवन्निव महीधारः॥ 9-32-49(62096)
तमुद्यतगदं वीरं मेनिरे तत्र पाण्डवाः।
वैवस्वतमिव क्रुद्धं शूलपाणिमिव स्थितम्॥ 9-32-50(62097)
स मेघनिनदो हर्षान्नर्दन्निव च गोवृषः।
आजुहाव ततः पार्थान्गदया युधि वीर्यवान्॥ 9-32-51(62098)
दुर्योधन उवाच। 9-32-52x(5154)
एकैकेन च मां यूयमासीदत युधिष्ठिर।
न ह्येको बहुभिर्न्याय्यो वीरो योधयितुं युधि॥ 9-32-52(62099)
न्यस्तवर्मा विशेषेण श्रान्तश्चाप्सु परिप्लुतः।
भृशं विक्षतगात्रश्च हतवाहनसैनिकः॥ 9-32-53(62100)
[अवश्यमेव योद्वव्यं सर्वैरेव मया सह।
युक्तं त्वयुक्तमित्येतद्वेत्सि त्वं चैव सर्वदा]॥ 9-32-54(62101)
युधिष्ठिर उवाच। 9-32-55x(5155)
मा भूदियं तव प्रज्ञा कथमेकं सुयोधन।
यदाऽभिमन्युं बहवो जघ्नुर्युधि महारथाः॥ 9-32-55(62102)
[क्षत्रधर्मं भृशं क्रूरं निरपेक्षं सुनिर्घृणम्।
अन्यथा तु कथं हन्युरभिमन्युं तथागतम्॥ 9-32-56(62103)
सर्वे भवन्तो धर्मज्ञाः सर्वे शूरास्तनुत्यजः।
न्यायेन युध्यतां प्रोक्ता शक्रलोकगतिः परा॥ 9-32-57(62104)
यद्येकस्तु न हन्तव्यो बहुभिर्धर्म एव तु।
तदाऽभिमन्युं बहवो निजघ्नुस्त्वन्मते कथम्॥ 9-32-58(62105)
सर्वो विमृशते जन्तुः कृच्छ्रस्थो धर्मदर्शनम्।
पदस्थः पिहितं द्वारं परलोकस्य पश्यति॥] 9-32-59(62106)
आमुञ्च कवचं वीर मूर्धजान्यमयस्व च।
यच्चान्यदपि ते नास्ति तदप्यादत्स्व भारत॥ 9-32-60(62107)
इममेकं च ते कामं वीर भूयो ददाम्यहम्।
पञ्चानां पाण़्डवेयानां येन त्वं योद्धुमिच्छसि॥ 9-32-61(62108)
तं हत्वा वै भवाराजा हतो वा स्वर्गमाप्नुहि।
ऋते च जीविताद्वीर युद्धे किं कुर्म ते प्रियम्॥ 9-32-62(62109)
सञ्जय उवाच। 9-32-63x(5156)
ततस्तव सुतो राजन्वर्म जग्राह काञ्चनम्।
विचित्रं च शिरस्त्राणं जाम्बूनदपरिष्कृतम्॥ 9-32-63(62110)
सोऽवबद्वशिरस्त्राणः शुभकाञ्चनवर्मभृत्।
रराज राजन्पुत्रस्ते काञ्चनः शैलराडिव॥ 9-32-64(62111)
सन्नद्धः सगतो राजन्सज्जः सङ्ग्राममूर्धनि।
अब्रवीत्पाण़्डवान्सर्वान्पुत्रो दुर्योधनस्तव॥ 9-32-65(62112)
भ्रातॄणां भवतामेको युध्यतां गदया मया।
सहदेवेन वा योत्स्ये भीमेन नकुलेन वा॥ 9-32-66(62113)
अथवा फल्गुनेनाद्य त्वया वा भरतर्षभ।
योत्स्येऽहं सङ्गरं प्राप्य विजेष्ये च रणाजिरे॥ 9-32-67(62114)
अहमद्य गमिष्यामि वैरस्यान्तं सुदुर्गमम्।
गदया पुरुषव्याघ्र हेमपट्टनिबद्धया॥ 9-32-68(62115)
गदायुद्धे न मे कश्चित्सदृशोऽस्तीति चिन्तये।
गदया वो हनिष्यामि सर्वानेव समागतान्॥ 9-32-69(62116)
न मे समर्थाः सर्वे वै योद्धुं न्यायेन केचन।
न युक्तमात्मना वक्तुमेवं गर्वोद्धतं वचः।
अथवा सफलं ह्येतत्करिष्ये भवतां पुरः॥ 9-32-70(62117)
अस्मिन्महूर्ते सत्यं वा मिथ्या वै तद्भविष्यति।]
गृह्णातु च गदां यो वै योत्स्यतेऽद्य मया सह॥ ॥ 9-32-71(62118)

इति श्रीमन्महाभारते शल्यपर्वणि द्वात्रिंशोऽध्यायः॥ 32 ॥

Mahabharata - Shalya Parva - Chapter Footnotes
9-32-3 आतपत्रेण दुर्योधनः सूर्याद्रक्षित इत्येष प्रवादोऽपि यस्य न स इति भावः॥ 9-32-10 परिद्यूनः परिश्रान्तः॥ 9-32-27 नः अस्माकं पञ्चानां मध्ये एकमपि हत्वा त्वं राजा भवेत्यन्वयः॥ 9-32-34 अद्य ते जीवितं नास्ति यद्यपि त्वं मनोजवः इति क.ङ.पाठः॥ 9-32-56 क्षत्रधर्मं अस्तीति शेषः। धर्मोऽस्त्री पुण्यआचारे इति मेदिनी॥ 9-32-32 द्वात्रिंशोऽध्यायः॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.